।। नवदुर्गास्तोत्रम् ।।
सतीनाम्नी शम्भुपत्नी पार्वती सान्यजन्मनि । नमामस्तां शैलपुत्रीं शारदीयमहोत्सवे ।। 1।। अपर्णा नित्यध्यानस्था कठोरं तापसंकरी । ब्रह्मणा (तपसा) शांकरी जाता नमोऽस्तु ब्रह्मचारिणि ।। 2।। |
मनःशान्तिकल्याणसौख्यादिसर्वं ददातु क्षमां सिंहपृष्ठासने त्वम् । शशीवास्ति कान्तिस्तु घण्टेव नादो नमः स्वस्तिदे कान्तिदे चन्द्रघण्टे ।। नमः कालरूपे सुपाहि त्रिलोकान् धनुःशङ्खचक्रादिशस्त्रान् करेषु । त्वया नाशिता मे विपन्ना ह्यवस्था नमः स्वस्तिदे कान्तिदे चन्द्रघण्टे ।।3।। |
यया ब्रह्माण्डमुत्पन्नं केवलं स्मितहास्यया । आद्यशक्तिश्च विख्याता कूष्माण्डायै नमो नमः ।। सिंहासनाष्टबाहुर्या सूर्यमण्डलवासिनी । सूर्यतेजोधारिणी या कूष्माण्डायै नमो नमः ।।4।। स्कन्दमाता शरण्या या चतुर्बाहुसमन्विता । पद्मासना पद्महस्ता मोक्षमार्गप्रदायिनी ।।5।। |
महिषासुरनाशाय कात्यायनेन पूजिता । सिंहारूढासिहस्ता या कात्यायनि नमोऽस्तु ते ।।6।। नमः कृष्णवर्णे नमो मुक्तकेशे भयंकारिणी त्वं शुभंदायिनी त्वम्। नमो भूतप्रेतादिभीतत्रिनेत्रे नमः कालरात्र्यै जगत्त्वं सुपाहि।।7।। |
महाशैलजा या महादेवजाया महाश्वेतपद्मा महाश्वेतवर्णा । महाशान्तशीला महागौरवी या महाशूलहस्ते मही रक्षणीया ।।8।। शिवश्चाष्टसिद्धिंगतो ध्यानकाले तवैव प्रसादेन सार्धाङ्गशोभा । मनोकामनाः पूर्णकर्त्री च भर्त्री सदा त्वां नुमो हे सुखंसिद्धिदात्रि ।।9।। |
।। इति श्रीहरीविरचितं नवदुर्गास्तोत्रं सम्पूर्णम् ।।
0 comments:
Post a Comment