WHAT'S NEW?
Loading...

।। देवीप्रसादपञ्चकम् ।।

।। देवीप्रसादपञ्चकम् ।।

कदाचिन्न कुर्यात्स दुष्टाभिमानः
सदा नम्रभावेन कार्यं करोति
जिताः सर्वलोकाः स्ववाचा हि येन
देवीप्रसादः सुलब्धो नतेन ।।1।।

सदा नम्रवाणी मुखे राजते सा
सदा सुष्ठु हास्यं मुखे शोभते वा।
सदा यो हि कामादिशत्रूंश्च हन्ति
देवीप्रसादः सुलब्धो नतेन ।। 2।।


सदा सर्वशास्त्रेषु नित्यं रतो यः
सदा गर्भसारो ह्यधीतश्च येन
सदा चिन्तनं यस्य ध्यानादिसर्वम्
देवीप्रसादः सुलब्धो नतेन ।।3।।


सदा गर्वभारः सदा दर्पवाणी
सदा दुर्विचारः सदा सर्पशीलम्
सदा शून्यधर्मः सदावैधकर्म
देवीप्रसादः सुलब्धो तेन ।।4।।

सदा चार्पिताः सर्वभावा हि येन
सदा चार्पिताः सर्वकामा हि येन
सदा सिद्धकर्मा सदा ज्ञातधर्मः
देवीप्रसादः सुलब्धो नतेन ।।5।।


0 comments:

Post a Comment